(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.61. अध्यायः 061
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन युगपद्द्रोणादिभिः सह यद्धम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-61-0x(3241)(30940)
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः।
आजगाम महाबाहुः कृपः शस्त्रभृतांवरः ।
अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः। 4-61-1(30941)
अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् ।
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् ॥ 4-61-2(30942)
तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ।
वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥ 4-61-3(30943)
श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः।
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया ॥ 4-61-4(30944)
कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम् ॥ 4-61-5(30945)
प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान्।
कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः ॥ 4-61-6(30946)
जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति ।
नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् ॥ 4-61-7(30947)
विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः।
चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् ॥ 4-61-8(30948)
सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः ।
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः ॥ 4-61-9(30949)
प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ।
उद्गतः समरे मेघो धाराभिरिव पर्वतम् ॥ 4-61-10(30950)
स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः ।
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम् ॥ 4-61-11(30951)
ततः शरसहस्रेण पार्थमप्रतिमौजसम् ।
अर्दयित्वा महाबाहुर्ननाद समरे कृपः ॥ 4-61-12(30952)
ततः कनकपुङ्खेन शरेण नतपर्वणा।
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् ॥ 4-61-13(30953)
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् ।
जग्राह समरे पार्थो भूयो बहुशिलीमुखान् ॥ 4-61-14(30954)
तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः ।
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् ॥ 4-61-15(30955)
चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद।
मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः ॥ 4-61-16(30956)
सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च।
नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः ॥ 4-61-17(30957)
तान्निहत्य ततः पार्थो निमेपादिव भारत ।
पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् ॥ 4-61-18(30958)
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्।
षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः ॥ 4-61-19(30959)
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः ॥ 4-61-20(30960)
छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव।
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे ॥ 4-61-21(30961)
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् ।
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे ॥ 4-61-22(30962)
तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम्।
रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् ॥ 4-61-23(30963)
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः।
सापतद्दशधा भूमौ पार्थेन निहता शरैः ॥ 4-61-24(30964)
शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः।
गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा।
गदां चिक्षेप सहसा पार्थायामिततेजसे ॥ 4-61-25(30965)
सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता ।
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा ॥ 4-61-26(30966)
अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत्।
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः ॥ 4-61-27(30967)
स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः ।
खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि ॥ 4-61-28(30968)
ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी ।
निमेषादिव चिच्छेद तदद्भुतमिवाभवत् ॥ 4-61-29(30969)
विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः।
दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् ॥ 4-61-30(30970)
भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः।
अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे।
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः ॥ 4-61-31(30971)
एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत्।
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् ॥ 4-61-32(30972)
एकैकमस्मान्संग्रामे पराजयति फल्गुनः।
अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च।
अन्ये च बहवः शूरा वयं जेष्याम वासविम् ॥ 4-61-33(30973)
समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः।
अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत ॥ 4-61-34(30974)
स सायकमयैर्जालैः सर्वतस्तान्महारथान्।
प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् ॥ 4-61-35(30975)
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥ 4-61-36(30976)
नागाश्वकायान्निर्भिद्य लौहानि कवचानि च।
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ ॥ 4-61-37(30977)
त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते।
मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः॥ 4-61-38(30978)
अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे।
उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः॥ 4-61-39(30979)
शरैस्तु ताड्यमानानां कवचानां महात्मनाम्।
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः॥ 4-61-40(30980)
छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम्।
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम्॥ 4-61-41(30981)
शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम्।
प्रनृत्यन्निव संग्रामे चापहस्ते धनंजयः॥ 4-61-42(30982)
शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः।
श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने।
त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश॥ 4-61-43(30983)
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च।
पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि ॥ 4-61-44(30984)
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥ 4-61-45(30985)
शिरसां पात्यमानानां समरे निशितैः शरैः।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥ 4-61-46(30986)
दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः।
जघान समरे शूराञ्छतशोऽथ सहस्रशः ॥ 4-61-47(30987)
तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च।
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः ॥ 4-61-48(30988)
तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम्।
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत ॥ 4-61-49(30989)
यथा नलवनं नागः प्रभिन्नः षष्टिहायनः।
एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा ॥ 4-61-50(30990)
विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान्।
अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत ॥ 4-61-51(30991)
तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे ।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥ 4-61-52(30992)
अस्थिशैवालसंबाधां संग्रामे पार्थनिर्मिताम् ।
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ॥ 4-61-53(30993)
रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम्।
करवालासिपाठीनां चामरोष्णीषफेनिलाम् ॥ 4-61-54(30994)
अश्वग्रीवामहावर्तां कबन्धजलमानुषाम्।
काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् ॥ 4-61-55(30995)
सिंहनादमहानादां शङ्खस्वनमहास्वनाम् ।
वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् ॥ 4-61-56(30996)
पदातिमत्स्यकलुषां गजशीर्षककच्छपाम्।
गोमायुगसंघुष्टां मांसमञ्जाभिकर्दमाम् ॥ 4-61-57(30997)
प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् ।
अपारामनिवासां च रक्तोदां सर्वतो वृताम् ॥ 4-61-58(30998)
अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम्।
गजवर्ममहाद्वीपामश्वदेहमहाशिलाम् ॥ 4-61-59(30999)
पदातिदेहसंघाटां रथावलिमहातरुम्।
केशशाद्वलसंछन्नां सुतरां भीतिदां नृणाम् ॥ 4-61-60(31000)
अगाधरक्तोदवहां यमसागरगामिनीम्।
दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप।
प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः ॥ 4-61-61(31001)
तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः।
विकर्षतश्च गाण्डीवं न किंचिद्ददृशेऽन्तरम् ॥ ॥ 4-61-62(31002)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकषष्टितमोऽध्यायः ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-61-28 स्वेचरः इवेतिच्छेदः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.