|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.61. अध्यायः 061
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन युगपद्द्रोणादिभिः सह यद्धम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-61-0x(3241)(30940)
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः।
आजगाम महाबाहुः कृपः शस्त्रभृतांवरः ।
अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः। 4-61-1(30941)
अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् ।
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् ॥ 4-61-2(30942)
तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ।
वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥ 4-61-3(30943)
श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः।
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया ॥ 4-61-4(30944)
कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम् ॥ 4-61-5(30945)
प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान्।
कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः ॥ 4-61-6(30946)
जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति ।
नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् ॥ 4-61-7(30947)
विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः।
चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् ॥ 4-61-8(30948)
सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः ।
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः ॥ 4-61-9(30949)
प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ।
उद्गतः समरे मेघो धाराभिरिव पर्वतम् ॥ 4-61-10(30950)
स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः ।
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम् ॥ 4-61-11(30951)
ततः शरसहस्रेण पार्थमप्रतिमौजसम् ।
अर्दयित्वा महाबाहुर्ननाद समरे कृपः ॥ 4-61-12(30952)
ततः कनकपुङ्खेन शरेण नतपर्वणा।
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् ॥ 4-61-13(30953)
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् ।
जग्राह समरे पार्थो भूयो बहुशिलीमुखान् ॥ 4-61-14(30954)
तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः ।
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् ॥ 4-61-15(30955)
चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद।
मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः ॥ 4-61-16(30956)
सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च।
नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः ॥ 4-61-17(30957)
तान्निहत्य ततः पार्थो निमेपादिव भारत ।
पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् ॥ 4-61-18(30958)
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्।
षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः ॥ 4-61-19(30959)
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः ॥ 4-61-20(30960)
छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव।
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे ॥ 4-61-21(30961)
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् ।
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे ॥ 4-61-22(30962)
तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम्।
रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् ॥ 4-61-23(30963)
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः।
सापतद्दशधा भूमौ पार्थेन निहता शरैः ॥ 4-61-24(30964)
शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः।
गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा।
गदां चिक्षेप सहसा पार्थायामिततेजसे ॥ 4-61-25(30965)
सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता ।
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा ॥ 4-61-26(30966)
अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत्।
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः ॥ 4-61-27(30967)
स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः ।
खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि ॥ 4-61-28(30968)
ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी ।
निमेषादिव चिच्छेद तदद्भुतमिवाभवत् ॥ 4-61-29(30969)
विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः।
दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् ॥ 4-61-30(30970)
भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः।
अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे।
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः ॥ 4-61-31(30971)
एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत्।
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् ॥ 4-61-32(30972)
एकैकमस्मान्संग्रामे पराजयति फल्गुनः।
अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च।
अन्ये च बहवः शूरा वयं जेष्याम वासविम् ॥ 4-61-33(30973)
समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः।
अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत ॥ 4-61-34(30974)
स सायकमयैर्जालैः सर्वतस्तान्महारथान्।
प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् ॥ 4-61-35(30975)
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥ 4-61-36(30976)
नागाश्वकायान्निर्भिद्य लौहानि कवचानि च।
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ ॥ 4-61-37(30977)
त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते।
मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः॥ 4-61-38(30978)
अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे।
उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः॥ 4-61-39(30979)
शरैस्तु ताड्यमानानां कवचानां महात्मनाम्।
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः॥ 4-61-40(30980)
छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम्।
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम्॥ 4-61-41(30981)
शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम्।
प्रनृत्यन्निव संग्रामे चापहस्ते धनंजयः॥ 4-61-42(30982)
शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः।
श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने।
त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश॥ 4-61-43(30983)
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च।
पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि ॥ 4-61-44(30984)
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥ 4-61-45(30985)
शिरसां पात्यमानानां समरे निशितैः शरैः।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥ 4-61-46(30986)
दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः।
जघान समरे शूराञ्छतशोऽथ सहस्रशः ॥ 4-61-47(30987)
तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च।
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः ॥ 4-61-48(30988)
तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम्।
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत ॥ 4-61-49(30989)
यथा नलवनं नागः प्रभिन्नः षष्टिहायनः।
एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा ॥ 4-61-50(30990)
विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान्।
अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत ॥ 4-61-51(30991)
तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे ।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥ 4-61-52(30992)
अस्थिशैवालसंबाधां संग्रामे पार्थनिर्मिताम् ।
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ॥ 4-61-53(30993)
रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम्।
करवालासिपाठीनां चामरोष्णीषफेनिलाम् ॥ 4-61-54(30994)
अश्वग्रीवामहावर्तां कबन्धजलमानुषाम्।
काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् ॥ 4-61-55(30995)
सिंहनादमहानादां शङ्खस्वनमहास्वनाम् ।
वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् ॥ 4-61-56(30996)
पदातिमत्स्यकलुषां गजशीर्षककच्छपाम्।
गोमायुगसंघुष्टां मांसमञ्जाभिकर्दमाम् ॥ 4-61-57(30997)
प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् ।
अपारामनिवासां च रक्तोदां सर्वतो वृताम् ॥ 4-61-58(30998)
अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम्।
गजवर्ममहाद्वीपामश्वदेहमहाशिलाम् ॥ 4-61-59(30999)
पदातिदेहसंघाटां रथावलिमहातरुम्।
केशशाद्वलसंछन्नां सुतरां भीतिदां नृणाम् ॥ 4-61-60(31000)
अगाधरक्तोदवहां यमसागरगामिनीम्।
दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप।
प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः ॥ 4-61-61(31001)
तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः।
विकर्षतश्च गाण्डीवं न किंचिद्ददृशेऽन्तरम् ॥ ॥ 4-61-62(31002)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकषष्टितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-61-28 स्वेचरः इवेतिच्छेदः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|